Back to Ganesh Aartis

Ganpati Atharvashirsha

गणपती अथर्वशीर्ष

8 min · Verified mantra
Text 1
Title1 of 18

Title

॥ श्री गणपत्यथर्वशीर्ष ॥

शान्ति पाठ

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

उपनिषत् १

हरिः ॐ नमस्ते गणपतये ।

त्वमेव प्रत्यक्षं तत्त्वमसि ॥

त्वमेव केवलं कर्ताऽसि ।

त्वमेव केवलं धर्ताऽसि ॥

त्वमेव केवलं हर्ताऽसि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥

स्वरूप तत्त्व २

ऋतं वच्मि (वदिष्यामि) ॥

सत्यं वच्मि (वदिष्यामि) ॥ २ ॥

उपनिषत् ३

अव त्वं माम् ।

अव वक्तारम् ॥

अव श्रोतारम् ।

अव दातारम् ॥

अव धातारम् ।

अवानूचानमव शिष्यम् ॥

अव पश्चात्तात् ।

अव पुरस्तात् ॥

अवोत्तरात्तात् ।

अव दक्षिणात्तात् ॥

अव चोर्ध्वात्तात् ।

अवाधरात्तात् ॥

सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥

उपनिषत् ४

त्वं वाङ्ग्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ॥

त्वं सच्चिदानन्दाद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ॥

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

उपनिषत् ५

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ॥

त्वं भूमिरापोऽनलोऽनिलो नभः ॥

त्वं चत्वारि वाक्पदानि ॥ ५ ॥

उपनिषत् ६

त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः ।

त्वं देहत्रयातीतः ॥

त्वं कालत्रयातीतः ।

त्वं मूलाधारः स्थिथोऽसि नित्यम् ॥

त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् ॥

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥

गणेश मन्त्र ७

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।

अनुस्वारः परतरः ॥

अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ॥

एतत्तव मनुस्वरूपम् ।

गकारः पूर्वरूपम् ॥

अकारो मध्यमरूपम् ।

अनुस्वारश्चान्त्यरूपम् ॥

बिन्दुरुत्तररूपम् ।

नादः सन्धानम् ॥

संहितासन्धिः ।

सैषा गणेशविद्या ॥

गणक ऋषिः ।

निचृद्गायत्रीच्छन्दः ॥

गणपतिर्देवता ॥

ॐ गं गणपतये नमः ॥ ७ ॥

गणेश गायत्री ८

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् ॥ ८ ॥

गणेश रूप ९

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

अष्ट नाम गणपति १०

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये

नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय

श्रीवरदमूर्तये नमो नमः ॥ १० ॥

फलश्रुति ११

एतदथर्वशीर्षं योऽधीते ।

स ब्रह्मभूयाय कल्पते ॥

स सर्वतः सुखमेधते ।

स सर्व विघ्नैर्नबाध्यते ॥

स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायम्प्रातः प्रयुञ्जानो अपापो भवति ॥

सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्मार्थकाममोक्षं च विन्दति ॥

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान् भवति ॥

सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥

फलश्रुति १२

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ॥

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।

स यशोवान् भवति ।

इत्यथर्वणवाक्यम् ॥

ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२ ॥

फलश्रुति १३

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।

यो लाजैर्यजति स यशोवान् भवति ॥

स मेधावान् भवति ।

यो मोदकसहस्रेण यजति ॥

स वाञ्छितफलमवाप्नोति ।

यः साज्यसमिद्भिर्यजति ॥

स सर्वं लभते स सर्वं लभते ॥ १३ ॥

फलश्रुति १४

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ॥

महाविघ्नात्प्रमुच्यते ।

महादोषात्प्रमुच्यते ॥

महापापात् प्रमुच्यते ।

स सर्वविद्भवति स सर्वविद्भवति ॥

य एवं वेद इत्युपनिषत् ॥ १४ ॥

शान्ति मन्त्र

ॐ सहनाववतु ।

सहनौभुनक्तु ॥

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

समाप्ति

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

गणपती बाप्पा मोरया

Prayer complete

Lyrics reviewed by Tap1ce content review. Made freely available by Tap1ce.
Sanskrit Wikisource — गणपत्यथर्वशीर्षम्, complete non-accented Devanagari text